दर्शन पाठ
(संस्कृत)
दर्शनं देवदेवस्यं, दर्शनं पापनाशनम्।
दर्शनं स्वर्ग-सोपानं, दर्शनं मोक्ष-साधनम्।।
दर्शनेन जिनेन्द्राणां, साधुनां वन्दनेन च।
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम्।।
वीतरागमुखं दृष्ट्वा, पद्मराग समप्रभम्।
जन्मजन्मकृतं पापं, दर्शनेन विनश्यति।।
दर्शनं जिनसूर्यस्य, संसारध्वान्तनाशनम्।
बोधनं चित्तपद्मस्य, समस्तार्थप्रकाशनम्।।
दर्शनं जिनचन्द्रस्य, सद्धर्मामृतवर्षणं।
जन्मदाहविनाशाय, वर्धनं सुखवारिधेः।।
जीवादि-तत्त्व-प्रतिपादकाय, सम्यक्त्व-मुख्याष्ट-गुणार्णवाय।
प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय।।
चिदानंदैक-रूपाय, जिनाय परमात्मने।
परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नमः।।
अन्यथा शरणं नास्ति, त्वमेव शरणं मम।
तस्मात् कारुण्य भावेन, रक्ष रक्ष जिनेश्वर।।
न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये।
वीतरागात्परो देवो, न भूतो न भविष्यति।
जिने भक्तिर्जिने भक्तिर्जिने भक्ति र्दिने दिने।
सदा मेंऽस्तु सदा मेऽस्तु सदामेऽस्तु भवे भवे।।
जिनधर्म-विनिर्मुक्तो, मां भवं चक्रवर्त्यपि।
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासितः।।
जन्म-जन्मकृतं पापं, जन्म-कोटिमुपार्जितम्।
जन्म-मृत्यु-जरा-रोगं, हन्यते जिनदर्शनात्।।
अद्याभवत्सफलता नयन-द्वयस्य,
देव त्वदीय - चरणांबुज - वीक्षणेन।
अद्य त्रिलोक - तिलकप्रतिभासते मे,
संसार-वारिधिरयं चुलुक - प्रणाम्।।